विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति -
यस्त्विति ।
विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।
सत्यपि विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह -
यस्तु प्रारब्धेति ।
त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -
स कुतश्चिदिति ।
लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।
कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -
स्वप्रयोजनाभावादिति ।
कथं तहि कर्मणि प्रवर्तते ? तत्राह-
लोकेति ।
प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति -
पूर्ववदिति ।
कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह -
कर्मणीति ।
उक्तेऽर्थे समनन्तरश्लोकमवतारयति -
ज्ञानाग्नीति ।
एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।