श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्तु अकर्मादिदर्शी, सः अकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि प्रवर्तते, यद्यपि प्राक् विवेकतः प्रवृत्तःयस्तु प्रारब्धकर्मा सन् उत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् , सः सर्वकर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येवसः कुतश्चित् निमित्तात् कर्मपरित्यागासम्भवे सति कर्मणि तत्फले सङ्गरहिततया स्वप्रयोजनाभावात् लोकसङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि नैव किञ्चित् करोति, ज्ञानाग्निदग्धकर्मत्वात् तदीयं कर्म अकर्मैव सम्पद्यते इत्येतमर्थं दर्शयिष्यन् आह

विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति -

यस्त्विति ।

विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।

सत्यपि  विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह -

यस्तु प्रारब्धेति ।

त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -

स कुतश्चिदिति ।

लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।

कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -

स्वप्रयोजनाभावादिति ।

कथं तहि कर्मणि प्रवर्तते ? तत्राह-

लोकेति ।

प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति -

पूर्ववदिति ।

कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह -

कर्मणीति ।

उक्तेऽर्थे समनन्तरश्लोकमवतारयति -

ज्ञानाग्नीति ।

एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।