श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥
यस्तु अकर्मादिदर्शी, सः अकर्मादिदर्शनादेव निष्कर्मा संन्यासी जीवनमात्रार्थचेष्टः सन् कर्मणि न प्रवर्तते, यद्यपि प्राक् विवेकतः प्रवृत्तः । यस्तु प्रारब्धकर्मा सन् उत्तरकालमुत्पन्नात्मसम्यग्दर्शनः स्यात् , सः सर्वकर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येव । सः कुतश्चित् निमित्तात् कर्मपरित्यागासम्भवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावात् लोकसङ्ग्रहार्थं पूर्ववत् कर्मणि प्रवृत्तोऽपि नैव किञ्चित् करोति, ज्ञानाग्निदग्धकर्मत्वात् तदीयं कर्म अकर्मैव सम्पद्यते इत्येतमर्थं दर्शयिष्यन् आह —

विवेकात् पूर्वं कर्मणि प्रवृत्तावपि, सति विवेके तत्र न प्रवृत्तिरित्याशङ्क्याङ्गीकरोति -

यस्त्विति ।

विवेकात् पूर्वमभिनिवेशेन प्रवृत्तस्य विवेकानन्तरमभिनिवेशाभावात् प्रवृत्त्यसम्भवेऽपि जीवनमात्रमुद्दिश्य प्रवृत्त्याभास सम्भवतीत्यर्थः ।

सत्यपि  विवेके तत्त्वसाक्षात्कारानुदयात् कर्मणि प्रवृत्तस्य कथं तत्त्यागः स्यादित्याशङ्क्याह -

यस्तु प्रारब्धेति ।

त्यक्त्वा इत्यादि समनन्तरश्लोकमवतारयितुं भूमिकां कृत्वा, तदवतारणप्रकारं दर्शयति -

स कुतश्चिदिति ।

लोकसङ्ग्रहादि, निमित्तं विवक्षितम् । कर्मपरित्यागासम्भवे सति तस्मिन् प्रवृत्तोऽपि नैव करोति किञ्चिदिति सम्बन्धः ।

कर्मणि प्रवृत्तो न करोति कर्मेति कथमुच्यते ? तत्राह -

स्वप्रयोजनाभावादिति ।

कथं तहि कर्मणि प्रवर्तते ? तत्राह-

लोकेति ।

प्रवृत्तेरर्थक्रियाकारित्वाभावं ‘पश्वादिभिश्चाविशेषात्’ इति न्यायेन व्यावर्तयति -

पूर्ववदिति ।

कथं तर्हि विवेकिनामविवेकिनां च विशेषः स्यादित्याशङ्क्य, कर्मादौ सङ्गासङ्गाभ्यामित्याह -

कर्मणीति ।

उक्तेऽर्थे समनन्तरश्लोकमवतारयति -

ज्ञानाग्नीति ।

एतमर्थं दर्शयिष्यन्निमं श्लोकमाहेति योजना ।