शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे किं दूषणं ? शरीरस्थितिमात्रप्रयोजनं शारीरमित्यस्मिन् वा पक्षे किं फलम् ? इति पूर्ववादी पृच्छति -
किञ्चात इति ।
शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह -
उच्यत इति ।
शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध ? विहितं वा ? प्रथमे, विरोधः स्यादित्याह -
यदेति ।
प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्रविरोधः स्यादित्यर्थः ।
द्वितीये, विहितकरणे सति अनिष्टप्राप्त्यभावादप्राप्ततिषेधः स्यादित्याह -
शास्त्रीयं चेति ।
दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः ।
शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह -
शारीरमिति ।
वाचा मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिः, इत्याशङ्क्याह -
तत्रापीति ।
वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति -
प्रतिषिद्धेति ।
शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति -
यदा त्विति ।
अन्यत् देहस्थितिप्रयोजनात् कर्मणः सकाशाद् इति शेषः ।
तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति -
लोकेति ।
विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह -
एवंभूतस्येति ।
विधिनिषेधगम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः ।
‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘ (भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह -
एवमिति
॥ २१ ॥