श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥
शारीरं केवलं कर्मइत्यत्र किं शरीरनिर्वर्त्यं शारीरं कर्म अभिप्रेतम् , आहोस्वित् शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म इति ? किं अतः यदि शरीरनिर्वर्त्यं शारीरं कर्म यदि वा शरीरस्थितिमात्रप्रयोजनं शारीरम् इति ? उच्यतेयदा शरीरनिर्वर्त्यं कर्म शारीरम् अभिप्रेतं स्यात् , तदा दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन् नाप्नोति किल्बिषम् इति ब्रुवतो विरुद्धाभिधानं प्रसज्येतशास्त्रीयं कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन् नाप्नोति किल्बिषम् इत्यपि ब्रुवतः अप्राप्तप्रतिषेधप्रसङ्गः । ‘शारीरं कर्म कुर्वन्इति विशेषणात् केवलशब्दप्रयोगाच्च वाङ्मनसनिर्वर्त्यं कर्म विधिप्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन् प्राप्नोति किल्बिषम् इत्युक्तं स्यात्तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे किल्बिषप्राप्तिवचनं विरुद्धम् आपद्येतप्रतिषिद्धसेवापक्षेऽपि भूतार्थानुवादमात्रम् अनर्थकं स्यात्यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्म अभिप्रेतं भवेत् , तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधगम्यं शरीरवाङ्मनसनिर्वर्त्यम् अन्यत् अकुर्वन् तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयोजनं केवलशब्दप्रयोगात्अहं करोमिइत्यभिमानवर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन् नाप्नोति किल्बिषंएवंभूतस्य पापशब्दवाच्यकिल्बिषप्राप्त्यसम्भवात् किल्बिषं संसारं आप्नोति ; ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत एव इति पूर्वोक्तसम्यग्दर्शनफलानुवाद एव एषःएवम्शारीरं केवलं कर्मइत्यस्य अर्थस्य परिग्रहे निरवद्यं भवति ॥ २१ ॥

शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे किं दूषणं ? शरीरस्थितिमात्रप्रयोजनं शारीरमित्यस्मिन् वा पक्षे किं फलम् ? इति पूर्ववादी पृच्छति -

किञ्चात इति ।

शरीरनिर्वर्त्यं शारीरमित्यस्मिन् पक्षे सिद्धान्ती दूषणमाह -

उच्यत इति ।

शरीरेण यन्निर्वर्त्यं, तत्किं प्रतिषिद्ध ? विहितं वा ? प्रथमे, विरोधः स्यादित्याह -

यदेति ।

प्रतिषिद्धाचरणेऽपि नानिष्टप्राप्तिरित्युक्ते प्रतिषेधशास्रविरोधः स्यादित्यर्थः ।

द्वितीये, विहितकरणे सति अनिष्टप्राप्त्यभावादप्राप्ततिषेधः स्यादित्याह -

शास्त्रीयं चेति ।

दृष्टप्रयोजनं कारीर्यादिकं कर्म, अदृष्टप्रयोजनं स्वर्गसाधनं ज्योतिष्टोमादिकं कर्मेति विभागः ।

शरीरनिर्वर्त्यं कर्म शारीरमभिमतम् , इति पक्षे दूषणान्तरमाह -

शारीरमिति ।

वाचा मनसा चाकर्मणोऽनुष्ठाने संन्यासिनो भवत्येव किल्बिषप्राप्तिः, इत्याशङ्क्याह -

तत्रापीति ।

वाङूमनसाभ्यां विहितानुष्ठाने वा, प्रतिषिद्धकरणे वा किल्बिषप्राप्तिः संन्यासिनः स्यात् , इति विकल्प्य, आद्ये जपध्यानविधिरोधः स्यादित्युक्त्वा, द्वितीयं दूषयति -

प्रतिषिद्धेति ।

शरीरनिर्वर्त्यं कर्म शारीरमिति पक्षमेवं प्रतिक्षिप्य, द्वितीयपक्षे लाभं दर्शयति -

यदा त्विति ।

अन्यत् देहस्थितिप्रयोजनात् कर्मणः सकाशाद् इति शेषः ।

तत्रापि विदुषः स्वदृष्ट्या न प्रवृत्तिरिति सूचयति -

लोकेति ।

विद्वान् उक्तया रीत्या वर्तमानो नाप्नोति किल्बिषमित्यत्र विवक्षितमर्थमाह -

एवंभूतस्येति ।

विधिनिषेधगम्यं कर्म देहस्थितिहेतुव्यतिरिक्तमकुर्वत इत्यर्थः ।

‘शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्‘ (भ. गी. ४-२१) इत्यस्योक्तेन प्रकारेण परिग्रहे ‘शारीरं केवल’ मिति विशेषणद्वयं निर्दोषं सिध्यतीति फलितमाह -

एवमिति

॥ २१ ॥