श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात् ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये सञ्जातात्मदर्शनः दृष्टादृष्टेष्टविषयाशीर्विवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म संन्यस्य शरीरयात्रामात्रचेष्टः यतिः ज्ञाननिष्ठो मुच्यते इत्येतमर्थं दर्शयितुमाह

सत्यपि विक्षेपके कर्मणि, कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्देतुत्वसिद्धिरित्यभिप्रेत्याह -

यः पुनरिति ।

पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम् । तदेव वैपरीत्यं स्फोरयति -

प्रागेवेति ।

ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथम् ? इत्याशङ्क्याह -

शरीरेति ।

तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिः ? इत्याशङ्क्य यथोपदिष्टचेष्टायामनादरात् नैवमित्याह -

ज्ञाननिष्ठ इति ।

इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः ।