सत्यपि विक्षेपके कर्मणि, कूटस्थात्मानुसन्धानस्य सिद्धे कैवल्यहेतुत्वे, विक्षेपाभावे सुतरां तस्य तद्देतुत्वसिद्धिरित्यभिप्रेत्याह -
यः पुनरिति ।
पूर्वोक्तविपरीतत्वं लोकसङ्ग्रहादिनिरपेक्षत्वम् । तदेव वैपरीत्यं स्फोरयति -
प्रागेवेति ।
ससाधनसर्वकर्मसंन्यासे शरीरस्थितिरपि कथम् ? इत्याशङ्क्याह -
शरीरेति ।
तर्हि तथाविधचेष्टानिविष्टचेतस्तया सम्यग्ज्ञानबहिर्मुखस्य कुतो मुक्तिः ? इत्याशङ्क्य यथोपदिष्टचेष्टायामनादरात् नैवमित्याह -
ज्ञाननिष्ठ इति ।
इति दर्शयितुमिमं श्लोकं प्राहेति पूर्ववत् । आशिषः प्रार्थनाभेदास्तृष्णाविशेषाः ।