परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह -
निर्वैरेति ।
सङ्क्षेपतो दर्शितमर्थं विशदयति -
य एवंभूत इति ।
तथाऽपि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह -
लोकेति ।
लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः ।
कथं तर्हि तस्याकर्तृत्वं ? तत्राह -
स्वानुभवेनेति ।
यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादिचतुर्थपादं व्याचष्टे -
स एवमिति ।
भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यतीत्याशङ्क्याह -
बन्धेति ।
ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवलम्’ (भ. गी. ४-२१) इत्यादावुक्तस्यायमनुवाद इति योजना । यथोक्तस्य कर्मणो युत्तया महाविरोधाभ्युपगमसूचनार्थः अपिशब्दः ॥ २२ ॥