श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः
समः सिद्धावसिद्धौ कृत्वापि निबध्यते ॥ २२ ॥
यदृच्छालाभसन्तुष्टः अप्रार्थितोपनतो लाभो यदृच्छालाभः तेन सन्तुष्टः सञ्जातालंप्रत्ययःद्वन्द्वातीतः द्वन्द्वैः शीतोष्णादिभिः हन्यमानोऽपि अविषण्णचित्तः द्वन्द्वातीतः उच्यतेविमत्सरः विगतमत्सरः निर्वैरबुद्दिः समः तुल्यः यदृच्छालाभस्य सिद्धौ असिद्धौ यः एवंभूतो यतिः अन्नादेः शरीरस्थितिहेतोः लाभालाभयोः समः हर्षविषादवर्जितः कर्मादौ अकर्मादिदर्शी यथाभूतात्मदर्शननिष्ठः सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादिकर्मणि शरीरादिनिर्वर्त्ये नैव किञ्चित् करोम्यहम्’ (भ. गी. ५ । ८), गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) इत्येवं सदा सम्परिचक्षाणः आत्मनः कर्तृत्वाभावं पश्यन्नैव किञ्चित् भिक्षाटनादिकं कर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैः आरोपितकर्तृत्वे भिक्षाटनादौ कर्मणि कर्ता भवतिस्वानुभवेन तु शास्त्रप्रमाणादिजनितेन अकर्तैव एवं पराध्यारोपितकर्तृत्वः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कृत्वापि निबध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वात् इति उक्तानुवाद एव एषः ॥ २२ ॥

परोत्कर्षामर्षपूर्विका स्वस्योत्कर्षाभिवाञ्छा विगता यस्मादिति व्युत्पत्तिमाश्रित्य विवक्षितमर्थमाह -

निर्वैरेति ।

सङ्क्षेपतो दर्शितमर्थं विशदयति -

य एवंभूत इति ।

तथाऽपि प्रकृतस्य यतेर्भिक्षाटनादौ कर्तृत्वं प्रतिभाति, तदभावे भिक्षाटनाद्यभावेन जीवनाभावप्रसङ्गादित्याशङ्क्याह -

लोकेति ।

लौकिकैरविवेकिभिः सह व्यवहारस्य स्नानाचमनभोजनादिलक्षणस्य विदुषाऽपि सामान्येन दर्शनात् तदनुसारेण लौकिकैरध्यारोपितकर्तृत्वभोक्तृत्वाद् विद्वानपि लोकदृष्ट्या भिक्षाटनादौ कर्तृत्वमनुभवतीत्यर्थः ।

कथं तर्हि तस्याकर्तृत्वं ? तत्राह -

स्वानुभवेनेति ।

यदृच्छेत्यादिपादत्रयं व्याख्याय, कृत्वाऽपीत्यादिचतुर्थपादं व्याचष्टे -

स एवमिति ।

भिक्षाटनादिना प्रातिभासिकेन कर्मणा विदुषो बद्धत्वाभावेऽपि कर्मान्तरेण निबद्धत्वं भविष्यतीत्याशङ्क्याह -

बन्धेति ।

ज्ञानाग्निदग्धत्वादित्येवं ‘शारीरं केवलम्’ (भ. गी. ४-२१) इत्यादावुक्तस्यायमनुवाद इति योजना । यथोक्तस्य कर्मणो युत्तया महाविरोधाभ्युपगमसूचनार्थः अपिशब्दः ॥ २२ ॥