पूर्वश्लोकेन सङ्गतिं दर्शयन् उत्तरश्लोकमुत्थापयति -
त्यक्तेति ।
अन्नादेरित्यादिशब्देन पादुकाच्छादनादि गृह्यते । याचनादिनेत्यादिपदेन सेवाकृष्याद्युपादीयते । भिक्षाटनार्थमुद्योगात् प्राक्काले केनापि योग्येन निवेदितं भैक्ष्यमयाचितम् । अभिशस्तं पतितं च वर्जयित्वा सङ्कल्पमन्तरेण पञ्चभ्यः सप्तभ्यो वा गृहेभ्यः समानीतं भैक्ष्यम् असङ्क्लृप्तम् । सिद्धमन्नं भक्तजनैः स्वसमीपमुपानीतमुपपन्नम् । यदृच्छया - स्वकीयप्रयत्नव्यतिरेकेणेति यावत् । आदिशब्देन ‘माधूकरमसङ्क्लृप्तं प्राक्प्रणीतमयाचितम् ।
तत्तत्कालोपपन्नं च भैक्ष्यं पञ्चविधं स्मृतम् ॥ ‘ (सं. उ. ६५)
इत्यादि गृृह्यते । आविष्कुर्वन्निदं वाक्यमाहेति योजनीयम् ।