यथोक्तस्यापि विद्यावतो मुक्तस्य भगवत्प्रीत्यर्थं कर्मानुष्ठानोपलम्भात् ततो बन्धारम्भः सम्भाव्येत, इत्याशङ्क्याह -
यज्ञायेति ।
धर्माधर्मादीत्यादिशब्देन रागद्वेषादिसङ्ग्रहः । तस्य बन्धनत्वं करणव्युत्पत्त्या प्रतिपत्तव्यम् । यज्ञनिर्वृत्त्यर्थं - यज्ञशब्दितस्य भगवतो विष्णोर्नारायणस्य प्रीतिसम्पत्त्यर्थमिति यावत् ।
ज्ञानमेव वाञ्छतो ज्ञानस्य प्रतिबन्धकं कर्म परिशङ्कितं परिहरति -
कर्मेति ।
समग्रेणेत्यङ्गीकृत्य व्याचष्टे -
सहेत्यादिना
॥ २३ ॥