गतसङ्गस्येत्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति -
त्यक्त्वेति ।
अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’ (भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः ।
कस्य कर्माभावप्रदर्शनम् ? इत्याशङ्क्याह -
यः प्रारब्धेति ।
प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह -
यदेति ।
ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यात् , इत्याशङ्क्याह -
आत्मन इति ।
लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अविद्यावस्थायामिवेति पूर्ववदित्युक्तम् । एवं वृत्तमनूद्योत्तरश्लोकमवतारयति -
यस्येति ।