श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्यक्त्वा कर्मफलासङ्गम्’ (भ. गी. ४ । २०) इत्यनेन श्लोकेन यः प्रारब्धकर्मा सन् यदा निष्क्रियब्रह्मात्मदर्शनसम्पन्नः स्यात् तदा तस्य आत्मनः कर्तृकर्मप्रयोजनाभावदर्शिनः कर्मपरित्यागे प्राप्ते कुतश्चिन्निमित्तात् तदसम्भवे सति पूर्ववत् तस्मिन् कर्मणि अभिप्रवृत्तस्य अपि नैव किञ्चित् करोति सः’ (भ. गी. ४ । २०) इति कर्माभावः प्रदर्शितःयस्य एवं कर्माभावो दर्शितः तस्यैव

गतसङ्गस्येत्यादिश्लोकस्य व्यवहितेन सम्बन्धं वक्तुं वृत्तं कीर्तयति -

त्यक्त्वेति ।

अनेन श्लोकेन ‘नैव किञ्चित् करोति सः’ (भ. गी. ४-२०) इत्यत्र कर्माभावः प्रदर्शितः इति सबन्धः ।

कस्य कर्माभावप्रदर्शनम् ? इत्याशङ्क्याह -

यः प्रारब्धेति ।

प्रारब्धकर्मा सन् योऽवतिष्ठते, तस्य कर्माभावः प्रदर्शितश्चेत् विरोधः स्यात् इत्याशङ्क्य, अवस्थाविशेषे तत्प्रदर्शनान्मैवमित्याह -

यदेति ।

ननु ज्ञानवतः क्रियाकारकफलाभावदर्शिनः कर्मपरित्यागध्रौव्यात् कर्माभाववचनमप्राप्तप्रतिषेधः स्यात् , इत्याशङ्क्याह -

आत्मन इति ।

लोकसङ्ग्रहादि निमित्तं प्रागेवोक्तम् । अविद्यावस्थायामिवेति पूर्ववदित्युक्तम् । एवं वृत्तमनूद्योत्तरश्लोकमवतारयति -

यस्येति ।