श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म अर्पणम्इति असमस्ते पदेयत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थःब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्यतथाब्रह्माग्नौइति समस्तं पदम्अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थःयत् तेन हुतं हवनक्रिया तत् ब्रह्मैवयत् तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम्

अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -

येनेति ।

यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह -

तस्येति ।

तत्र दृष्टान्तमाह -

यथेति ।

उक्तेऽर्थे पदद्वयमवतारयति -

तद्वदुच्यत इति ।

उक्तमेवार्थं स्पष्टयति -

यथा यदिति ।

समासशङ्कां व्यावर्तयति -

ब्रह्मेति ।

पदद्वयपक्षे विवक्षितमर्थं कथयति -

यदर्पणेति ।

ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -

ब्रह्मेत्यादिना ।

यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -

तथेति ।

अस्येति षष्ठी ब्रह्मविदमधिकरोति ।

पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -

तथेति ।

प्रागुक्तासमासवदिति व्यतिरेकः ।

तत्र विवक्षितमर्थमाह -

अग्निरपीति ।

ब्रह्मणेति पदस्याभिमतमर्थमाह -

ब्रह्मणेति ।

कर्त्रा हूयत इति सम्बन्धः ।

कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह -

ब्रह्मैवेति ।

हुतमित्यस्य विवक्षितमर्थमाह -

यत्तेनेति ।

ब्रह्मैव तेनेत्यादि भागं विभजते -

ब्रह्मैवेत्यादिना ।

‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -

ब्रह्मेति ।

कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।