एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह -
एवमिति ।
निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -
निवृत्तेति ।
यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः ।
ज्ञानस्य यज्ञत्वसम्पादनमभिनयति -
यदर्पणादीति ।
केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह -
अन्यथेति ।
ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -
तस्मादिति ।
‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह -
कारकेति ।
कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -
नहीति ।
उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति -
सर्वमेवेति ।
‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।
अन्वयमुक्त्वा व्यतिरेकमाह -
नेत्यादिना ।
उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।
तथाऽपि ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -
इदमिति ।
यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः ।
ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -
तथाचेति ।
ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह -
तथाच दर्शयन्निति ।
अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -
दृष्टा चेति ।
विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -
तथेति ।
इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह -
तथेति ।
सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति -
अत इति ।