श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
एवं लोकसङ्ग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थतः अकर्म, ब्रह्मबुद्ध्युपमृदितत्वात्एवं सति निवृत्तकर्मणोऽपि सर्वकर्मसंन्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते ; यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य अध्यात्मं ब्रह्मैव परमार्थदर्शिन इतिअन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात्तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः कर्माभावःकारकबुद्ध्यभावाच्च हि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टम्सर्वमेव अग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसम्प्रदानादिकारकबुद्धिमत् कर्त्रभिमानफलाभिसन्धिमच्च दृष्टम् ; उपमृदितक्रियाकारकफलभेदबुद्धिमत् कर्तृत्वाभिमानफलाभिसन्धिरहितं वाइदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि कर्मअतः अकर्मैव तत्तथा दर्शितम् कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः’ (भ. गी. ४ । २०) गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यादिभिःतथा दर्शयन् तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोतिदृष्टा काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिःतथा मतिपूर्वकामतिपूर्वकादीनां कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम्तथा इहापि ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्मापि विदुषः अकर्म सम्पद्यतेअतः उक्तम् समग्रं प्रविलीयते’ (भ. गी. ४ । २०) इति

एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह -

एवमिति ।

निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -

निवृत्तेति ।

यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः ।

ज्ञानस्य यज्ञत्वसम्पादनमभिनयति  -

यदर्पणादीति ।

केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह -

अन्यथेति ।

ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -

तस्मादिति ।

‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह -

कारकेति ।

कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -

नहीति ।

उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति -

सर्वमेवेति ।

‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं  कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।

अन्वयमुक्त्वा व्यतिरेकमाह -

नेत्यादिना ।

उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।

तथाऽपि  ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -

इदमिति ।

यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः ।

ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -

तथाचेति ।

ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह -

तथाच दर्शयन्निति ।

अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -

दृष्टा चेति ।

विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -

तथेति ।

इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह -

तथेति ।

सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति -

अत इति ।