ब्रह्मार्पणमन्त्रस्य स्वव्याख्यानमुक्त्वा, स्वयूथ्यव्याख्यानमनुवदति -
अत्रेति ।
प्रसिद्धोद्देशेनाप्रसिद्धविधानस्य न्याय्यत्वादप्रसिद्धोद्देशेन प्रसिद्धविधानं कथम् ? इत्याशङ्क्याह -
ब्रह्मैवेति ।
किलेत्यस्मिन् व्याख्याने सिद्धान्तिनोऽसम्प्रतिपत्तिं सूचयति । कर्तृकर्मकरणसम्प्रदानाधिकरणरूपेण पञ्चविेधेन ब्रह्मैव व्यवस्थितं कर्म करोतीत्यङ्गीकारात् तदप्रसिद्ध्यभावात् तदनुवादेनार्पणादिष्वविरुद्धः तद्दृष्टिविधिरित्यर्थः ।
दृष्टिविधिपक्षे सिद्धान्ताद्विशेषं दर्शयति -
तत्रेति ।
अर्पणादिषु कर्तव्यां ब्रह्मबुद्धिं दृष्टान्ताभ्यां स्पष्टयति -
यथेत्यादिना ।