श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
सत्यम् , एवमपि स्यात् यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं स्यात्अत्र तु सम्यग्दर्शनं ज्ञानयज्ञशब्दितम् अनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४ । ३३) इति ज्ञानं स्तौतिअत्र समर्थमिदं वचनम्ब्रह्मार्पणम्इत्यादि ज्ञानस्य यज्ञत्वसम्पादने ; अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात्ये तु अर्पणादिषु प्रतिमायां विष्णुदृष्टिवत् ब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते तेषां ब्रह्मविद्या उक्ता इह विवक्षिता स्यात् , अर्पणादिविषयत्वात् ज्ञानस्य दृष्टिसम्पादनज्ञानेन मोक्षफलं प्राप्यते । ‘ब्रह्मैव तेन गन्तव्यम्इति चोच्यतेविरुद्धं सम्यग्दर्शनम् अन्तरेण मोक्षफलं प्राप्यते इतिप्रकृतविरोधश्च ; सम्यग्दर्शनम् प्रकृतम् कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यत्र, अन्ते सम्यग्दर्शनम् , तस्यैव उपसंहारात्श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४ । ३३), ज्ञानं लब्ध्वा परां शान्तिम्’ (भ. गी. ४ । ३९) इत्यादिना सम्यग्दर्शनस्तुतिमेव कुर्वन् उपक्षीणः अध्यायःतत्र अकस्मात् अर्पणादौ ब्रह्मदृष्टिः अप्रकरणे प्रतिमायामिव विष्णुदृष्टिः उच्यते इति अनुपपन्नम् | तस्मात् यथाव्याख्यातार्थ एव अयं श्लोकः ॥ २४ ॥

दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति -

सत्यमेवमिति ।

विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति -

अत्र त्विति ।

किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभतीत्याह -

अत्र चेति ।

ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह -

ये त्विति ।

यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं, तथाऽर्पणादिषु ब्रह्मदृष्टिकरणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः ।

किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह -

नचेति ।

 नचार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयति’ (ब्र. सू. ४-३-१५) इति न्यायविरोधादितिभावः ।

दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह -

विरुद्धं चेति ।

ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः ।

दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह-

प्रकृतेति ।

तदेव प्रपञ्चयति -

सम्यग्दर्शनं चेति ।

अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः -

तस्यैवेति ।

सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति प्रकरणस्यातद्विषयत्वम् , इत्याशङ्क्याह -

श्रेयानिति ।

प्रकरणे सम्यग्ज्ञानविषये सति अनुपपन्नो दर्शनविधिरिति फलितमाह -

तत्रेति ।

ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासम्भवे स्वकीयव्याख्यानं व्यवस्थितम् , इत्युपसंहरति -

तस्मादिति

॥ २४ ॥