दृष्टिविधाने विधेयदृष्टेर्मानसक्रियात्वेन सम्यग्ज्ञानत्वाभावात् प्रकरणभङ्गः स्यात् , इत्यभिप्रेत्य परिहरति -
सत्यमेवमिति ।
विधित्सितदृष्टिस्तुतिपरमेव प्रकरणं, न ज्ञानस्तुतिपरम् , इत्याशङ्क्य, प्रकरणपर्यालोचनया ज्ञानस्तुतिरेवात्र प्रतिभातीति प्रतिपादयति -
अत्र त्विति ।
किञ्च ब्रह्मार्पणमन्त्रस्यापि सम्यग्ज्ञानस्तुतौ सामर्थ्यं प्रतिभतीत्याह -
अत्र चेति ।
ननु अर्पणादिषु ब्रह्मदृष्टिं कुर्वतामपि ब्रह्मविद्यैवात्र विवक्षितेति पक्षभेदासिद्धिरिति चेत् , तत्राह -
ये त्विति ।
यथा ब्रह्मदृष्ट्या नामादिकमुपास्यं, तथाऽर्पणादिषु ब्रह्मदृष्टिकरणे सति अर्पणादिकमेव प्राधान्येन ज्ञेयमिति, ब्रह्मविद्या यथोक्तेन वाक्येन विवक्षिता न स्यादित्यर्थः ।
किञ्च ‘ब्रह्मैव तेन गन्तव्यम् ‘इति ब्रह्मप्राप्तिफलाभिधानादपि दृष्टिविधानमश्लिष्टमित्याह -
नचेति ।
नचार्पणाद्यालम्बना दृष्टिर्ब्रह्म प्रापयति, ‘अप्रतीकालम्बनान् नयति’ (ब्र. सू. ४-३-१५) इति न्यायविरोधादितिभावः ।
दृष्टिविधानेऽपि नियोगबलादेन स्वर्गवददृष्टो मोक्षो भविष्यति, इत्याशङ्क्याह -
विरुद्धं चेति ।
ज्ञानादेव कैवल्यमुक्त्वा मार्गान्तरापवादिन्या श्रुत्या विरुद्धं मोक्षस्याविद्यानिवृत्तिलक्षणस्य दृष्टस्य नैयोगिकत्ववचनमित्यर्थः ।
दृष्टिनियोगान्मोक्षो भवतीत्येतत् प्रकरणविरुद्धं च इत्याह-
प्रकृतेति ।
तदेव प्रपञ्चयति -
सम्यग्दर्शनं चेति ।
अन्ते च सम्यग्दर्शनं प्रकृतमिति सम्बन्धः । तत्र हेतुः -
तस्यैवेति ।
सम्यग्ज्ञानेनोपक्रम्य तेनैवोपसंहारेऽपि मध्ये किञ्चिदन्यदुक्तमिति प्रकरणस्यातद्विषयत्वम् , इत्याशङ्क्याह -
श्रेयानिति ।
प्रकरणे सम्यग्ज्ञानविषये सति अनुपपन्नो दर्शनविधिरिति फलितमाह -
तत्रेति ।
ब्रह्मार्पणमन्त्रे परकीयव्याख्यानासम्भवे स्वकीयव्याख्यानं व्यवस्थितम् , इत्युपसंहरति -
तस्मादिति
॥ २४ ॥