श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कस्मात् पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भम् अकुर्वत् समग्रं प्रविलीयते त्युच्यते यतः

‘नाभुक्तं क्षीयते कर्म’ (ब्रह्मवैवर्तपुराणे ? ) इति स्मृतिमाश्रित्य शङ्कते -

कस्मादिति ।

समस्तस्य - क्रियाकारकफलात्मकस्य द्वैतस्य ब्रह्ममात्रत्वेन बाधितत्वाद् ब्रह्मविदो ब्रह्ममात्रस्य कर्म प्रविलीयते सर्वम् , इति युक्तमित्याह-

उच्यत इति ।

ब्रह्मविदो ब्रह्मैव सर्वक्रियाकारकफलजातं द्वैतमित्यत्र हेतुत्वेनानन्तरश्लोकमवतारयति -

यत इति ।