यज्ञषट्कमवतारयति -
द्रव्येति ।
तत्र द्रव्ययज्ञान् पुरुषानुपादाय विभजते -
तीर्थेष्विति ।
तपस्विनां यज्ञबुद्ध्या तपोऽनुतिष्ठन्तो नियमवन्त इत्यर्थः । प्रत्याहारादीत्यादिशब्देन यमनियमासनध्यानधारणासमाधयो गृह्यन्ते । यथाविधि प्रामुखत्वपवित्रपाणित्वाद्यङ्गविधिमनतिक्रम्येति यावत् । व्रतानां तीक्ष्णीकरणमतिदृढत्वम् ॥ २८ ॥