श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥
अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम् , पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थःप्राणे अपानं तथा अपरे जुह्वति, रेचकाख्यं प्राणायामं कुर्वन्तीत्येतत्प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः ; कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥ २९ ॥

प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -

प्राणेति

॥ २९ ॥