मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्थोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अपाने
जुह्वति
प्राणं
प्राणेऽपानं
तथापरे
।
प्राणापानगती
रुद्ध्वा
प्राणायामपरायणाः
॥ २९ ॥
अपाने
अपानवृत्तौ
जुह्वति
प्रक्षिपन्ति
प्राणं
प्राणवृत्तिम्
,
पूरकाख्यं
प्राणायामं
कुर्वन्तीत्यर्थः
।
प्राणे
अपानं
तथा
अपरे
जुह्वति
,
रेचकाख्यं
च
प्राणायामं
कुर्वन्तीत्येतत्
।
प्राणापानगती
मुखनासिकाभ्यां
वायोः
निर्गमनं
प्राणस्य
गतिः
,
तद्विपर्ययेण
अधोगमनम्
अपानस्य
गतिः
,
ते
प्राणापानगती
एते
रुद्ध्वा
निरुध्य
प्राणायामपरायणाः
प्राणायामतत्पराः
;
कुम्भकाख्यं
प्राणायामं
कुर्वन्तीत्यर्थः
॥ २९ ॥
प्राणेति
;
प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -
प्राणेति
॥ २९ ॥