श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥
यज्ञशिष्टामृतभुजः यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं तत् अमृतं यज्ञशिष्टामृतं तत् भुञ्जते इति यज्ञशिष्टामृतभुजःयथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत् ; कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते अयं लोकः सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि यज्ञः यस्य नास्ति सः अयज्ञः तस्यकुतः अन्यो विशिष्टसाधनसाध्यः कुरुसत्तम ॥ ३१ ॥

यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति -

नायमिति ।

कथं यथोक्तयज्ञानुष्ठायिनाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः ? इत्याशङ्क्य, मुमुक्षुत्वे सति चित्तशुद्धिद्वारा, इत्याह - मुमुक्षवश्चेदिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः ? तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गतिनिर्देशसामर्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह -

कालातीति ।

तृतीयं पादं व्याचष्टे -

नायमिति ।

विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥