यथोक्तानां यज्ञानां मध्ये केनचिदपि यज्ञेन अविशेषितस्य पुरुषस्य प्रत्यवायं दर्शयति -
नायमिति ।
कथं यथोक्तयज्ञानुष्ठायिनाम् अवशिष्टेन कालेन विहितान्नभुजां ब्रह्मप्राप्तिः ? इत्याशङ्क्य, मुमुक्षुत्वे सति चित्तशुद्धिद्वारा, इत्याह - मुमुक्षवश्चेदिति । तत्किमिदानीं साक्षादेव मोक्षो विविक्षितः ? तथाच गतिश्रुतिविरोधः स्याद् , इत्याशङ्क्य, गतिनिर्देशसामर्थ्यात् क्रममुक्तिः अत्राभिप्रेता, इत्याह -
कालातीति ।
तृतीयं पादं व्याचष्टे -
नायमिति ।
विवक्षितं कैमुतिकन्यायमाह - कुत इति । साधारणलोकाभावे पुनरसाधारणलोकप्राप्तिः दूरनिरस्ता इत्यर्थः । यथोक्तेऽर्थे बुद्धिसमाधानं कुरुकुलप्रधानस्य अर्जुनस्य अनायासलभ्यमिति वक्तुं कुरुसत्तम इत्युक्तम् ॥ ३१ ॥