उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रेक्षानिबन्धनत्वं निरस्यति -
एवमिति ।
आत्मव्यापारसाध्यत्वम् उक्तकर्मणामाशङ्क्य, दूषयति -
कर्मजानिति ।
आत्मनो निर्व्यापारत्वज्ञाने फलमाह-
एवमिति ।
कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् ? इत्याशङ्क्य आह -
वेदद्वारेणेति ।
तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’ (बृ. उ. ४-४-२२) इत्युपक्रम्य अध्ययनाद्याक्षिप्य, हेत्वाकाङ्क्षायामुक्तं -
वाचि हीति ।
ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपंसहारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’ (एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः ।
ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिः इत्यर्थः कर्मणाम् आत्मजन्यत्वाभावे हेतुमाह -
निर्व्यापारोहीति ।
तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह -
अत इति ।
एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति -
नेत्यादिना
॥ ३२ ॥