श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः वितताः विस्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः ब्रह्मणो मुखे वितता उच्यन्ते ; तद्यथा वाचि हि प्राणं जुहुमः’ (ऐ. आ. ३ । २ । ६) इत्यादयःकर्मजान् कायिकवाचिकमानसकर्मोद्भावान् विद्धि तान् सर्वान् अनात्मजान् , निर्व्यापारो हि आत्माअत एवं ज्ञात्वा विमोक्ष्यसे अशुभात् मद्व्यापारा इमे, निर्व्यापारोऽहम् उदासीन इत्येवं ज्ञात्वा अस्मात् सम्यग्दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः ॥ ३२ ॥

उक्तानां यज्ञानां वेदमूलकत्वेन उत्प्रेक्षानिबन्धनत्वं निरस्यति -

एवमिति ।

आत्मव्यापारसाध्यत्वम् उक्तकर्मणामाशङ्क्य, दूषयति -

कर्मजानिति ।

आत्मनो निर्व्यापारत्वज्ञाने फलमाह-

एवमिति ।

कथं यथोक्तानां यज्ञानां वेदस्य मुखे विस्तीर्णत्वम् ? इत्याशङ्क्य आह -

वेदद्वारेणेति ।

तेन अवगम्यमानत्वमेव उदाहरति - तद्यथेति । ‘एतद्ध स्म वै तत्पूर्वे विद्वांस आहुः’ (बृ. उ. ४-४-२२) इत्युपक्रम्य अध्ययनाद्याक्षिप्य, हेत्वाकाङ्क्षायामुक्तं -

वाचि हीति ।

ज्ञानशक्तिमद्विषये क्रियाशक्तिमदुपंसहारः अत्र विवक्षितः, ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाप्ययः’ (एे. आ. ३-२-६) इति वाक्यम् आदिशब्दार्थः ।

ज्ञानशक्तिमतां क्रियाशक्तिमतां च अन्योन्योत्पत्तिप्रलयत्वात् तदभावे नाध्ययनादिसिद्धिः इत्यर्थः कर्मणाम् आत्मजन्यत्वाभावे हेतुमाह -

निर्व्यापारोहीति ।

तस्य च निर्व्यापारत्वं फलवत्त्वात् ज्ञातव्यम् , इत्याह -

अत इति ।

एवं ज्ञानमेव ज्ञापयन् उक्तं व्यनक्ति -

नेत्यादिना

॥ ३२ ॥