श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः हे परन्तपद्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः फलारम्भकः, अतः श्रेयान् प्रशस्यतरःकथम् ? यतः सर्वं कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने सर्वतःसम्प्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः यथा कृताय विजितायाधरेयाः संयन्त्येवमेवं सर्वं तदभिसमेति यत् किञ्चित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद’ (छा. उ. ४ । १ । ४) इति श्रुतेः ॥ ३३ ॥

ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह -

सर्वमिति ।

द्रव्यसाधनसाध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात् , द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति -

द्रव्यमयो हिति ।

फलस्य -अभ्युदयस्येत्यर्थः । न फलारम्भकः -न कस्यचित्फलस्योत्पादकः । किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः ।

तस्य प्रशस्यतरत्वे हेत्वन्तरमाह -

यत इति ।

सपस्तं कर्मेति अग्निहोत्रादिकमुच्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् ।

सर्वम् अखिलम् - इति पदद्वयोपादानमसङ्कोचार्थम् । सर्वं कर्म ज्ञानेऽन्तर्भवति इत्यत्र छान्दोग्यश्रुतिं प्रमाणयति -

 यथेति ।

चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यकाङ्कानामायानाम् अन्तर्मावो भवति । महासंख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं ? यद्विदुषि पुरुषेऽन्तर्भवति, तदाह -

यत्किञ्चिदिति ।

प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्सर्वमित्यर्थः ।

एनमभिसमेतीत्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि -

यस्तदिति ।

किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥