ज्ञानयज्ञस्य द्रव्यज्ञात् प्रशस्यतरत्वे हेतुमाह -
सर्वमिति ।
द्रव्यसाधनसाध्याद् इत्युपलक्षणं स्वाध्यायादेरपि । ततोऽपि ज्ञानयज्ञस्य श्रेयस्त्वाविशेषात् , द्रव्यमयादियज्ञेभ्यो ज्ञानयज्ञस्य प्रशस्यतरत्वं प्रपञ्चयति -
द्रव्यमयो हिति ।
फलस्य -अभ्युदयस्येत्यर्थः । न फलारम्भकः -न कस्यचित्फलस्योत्पादकः । किन्तु नित्यसिद्धस्य मोक्षस्याभिव्यञ्जक इत्यर्थः ।
तस्य प्रशस्यतरत्वे हेत्वन्तरमाह -
यत इति ।
सपस्तं कर्मेति अग्निहोत्रादिकमुच्यते । अखिलम् - अविद्यमानं खिलं - शेषः अस्येति, अनल्पम् । महत्तरमिति यावत् ।
सर्वम् अखिलम् - इति पदद्वयोपादानमसङ्कोचार्थम् । सर्वं कर्म ज्ञानेऽन्तर्भवति इत्यत्र छान्दोग्यश्रुतिं प्रमाणयति -
यथेति ।
चतुरायके हि द्यूते कश्चिदायः चतुरङ्कस्सन् कृतशब्देनोच्यते - तस्मै विजिताय कृताय तादर्थ्येन अधरेयाः तस्मात् अधस्ताद्भाविनः त्रिद्व्येकाङ्काः त्रेताद्वापरकलिनामानः, संयन्ति - आयाः सङ्गच्छन्ते । चतुरङ्के खलु आये त्रिद् व्यकाङ्कानामायानाम् अन्तर्मावो भवति । महासंख्यायामवान्तरसङ्ख्यान्तर्भावावश्यम्भावात् । एवम् एनं विद्यावन्तं पुरुषं, सर्वं तदाभिमुख्येन समेति - सङ्गच्छते । किं तत्सर्वं ? यद्विदुषि पुरुषेऽन्तर्भवति, तदाह -
यत्किञ्चिदिति ।
प्रजाः सर्वाः यत्किंचिदपि साधु कर्म कुर्वन्ति, तत्सर्वमित्यर्थः ।
एनमभिसमेतीत्युक्तं, तमेव विद्यावन्तं पुरुषं विशिनष्टि -
यस्तदिति ।
किं तदित्युक्तं, तदेव विशदयति -यत्स इति । स रैक्को यत् तत्त्वं वेद, तत् तत्त्वं योऽन्योऽपि जानाति, तमेनं सर्वं साधु कर्म अभिसमेतीति योजना ॥ ३३ ॥