कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्तानुवादपूर्वकम् उत्तरश्लोकस्य तात्पर्यमाह -
ब्रह्मेत्यादिना ।
सिद्धेति ।
सिद्धं पुरुषार्थभूतम्पुरुषापेक्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अनन्तरोपदिष्टैरिति यावत् ।
प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति -
कथमित्यादिना ।