श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
‘ब्रह्मार्पणम्’ (भ. गी. ४ । २४) इत्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सम्पादितम् । यज्ञाश्च अनेके उपदिष्टाः । तैः सिद्धपुरुषार्थप्रयोजनैः ज्ञानं स्तूयते । कथम् ? —

कर्मयोगेऽनेकधा अभिहिते, सर्वस्व श्रेयःसाधनस्य कर्मात्मकत्वप्रतिपत्त्या केवलं ज्ञानम् अनाद्रियमाणम् अर्जुनमालक्ष्य, वृत्तानुवादपूर्वकम् उत्तरश्लोकस्य तात्पर्यमाह -

ब्रह्मेत्यादिना ।

सिद्धेति ।

सिद्धं पुरुषार्थभूतम्पुरुषापेक्षित लक्षणं प्रयोजनं येषां यज्ञानां, तैः । अनन्तरोपदिष्टैरिति यावत् ।

प्रश्नपूर्वकं स्तुतिप्रकारं प्रकटयति -

कथमित्यादिना ।