श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥
तदेतत् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते —

यद्येवं प्रशस्यतरमिदं ज्ञानं, तर्हि केनोपायेन तत्प्राप्तिः, इति पृच्छति -

तदेतदिति ।

ज्ञानप्राप्तौ प्रत्यासन्नमुपायम् उपदिशति -

उच्यत इति ।