श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यज्ज्ञात्वा पुनर्मोहमेवं यास्यसि पाण्डव
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
यत् ज्ञात्वा यत् ज्ञानं तैः उपदिष्टं अधिगम्य प्राप्य पुनः भूयः मोहम् एवं यथा इदानीं मोहं गतोऽसि पुनः एवं यास्यसि हे पाण्डवकिञ्चयेन ज्ञानेन भूतानि अशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षात् आत्मनि प्रत्यगात्मनिमत्संस्थानि इमानि भूतानिइति अथो अपि मयि वासुदेवेपरमेश्वरे इमानिइति ; क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं द्रक्ष्यसि इत्यर्थः ॥ ३५ ॥

तत्र निष्ठाप्रतिष्ठायै तदेव ज्ञानं पुनर्विशिनष्टि -

येनेति ।

‘यज्ज्ञात्वा’ इत्ययुक्तं, ज्ञाने ज्ञानायोगात् , इत्याशङ्क्य, प्राप्त्यर्थत्वमधिपूर्वस्य गमेरङ्गीकृत्य व्याकरोति -

अधिगम्येति ।

इतश्च आचार्योपदेशलभ्ये ज्ञाने फलवति प्रतिष्ठावता भवितव्यम् , इत्याह -

किञ्चेति ।

जीवे चेश्वरे चोभयत्र भूतानां प्रतिष्ठितत्वप्रतिनिर्देशे मेदवादानुमतिः स्याद् ? इत्याशङ्क्याह -

क्षेत्रज्ञेति ।

मूलप्रमाणाभावे कथं तदेत्वदर्शनं स्याद् ? इत्याशङ्क्य आह -

सर्वेति

॥ ३५ ॥