श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥
अपि चेत् असि पापेभ्यः पापकृद्भ्यः सर्वेभ्यः अतिशयेन पापकृत् पापकृत्तमः सर्वं ज्ञानप्लवेनैव ज्ञानमेव प्लवं कृत्वा वृजिनं वृजिनार्णवं पापसमुद्रं सन्तरिष्यसिधर्मोऽपि इह मुमुक्षोः पापम् उच्यते ॥ ३६ ॥

पापकारिभ्यः सर्वेभ्यः सकाशात् अतिशयेन पापकारित्वम् एकस्मिन् असम्भावितमपि ज्ञानमाहात्म्यप्रसिद्यर्थमङ्गीकृत्य, ब्रवीति -

अपिचेदिति ।

ब्रह्मात्मैक्यज्ञानस्य सर्वपापनिवर्तकत्वेन माहात्म्यम् इदानीं प्रकटयति -

सर्वमिति ।

अधर्मे निवृत्तेऽपि धर्मप्रतिबन्धात् ज्ञानवतोऽपि न मोक्षः सम्भवति इत्याशङ्क्य आह –

धर्मोऽपीति ।

इहेति अध्यात्मशास्त्रं गृह्यते ॥ ३६ ॥