श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानमेव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्यर्थः हि साक्षादेव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुं शक्नोतितस्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणम् इत्यभिप्रायःसामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तत् प्रवृत्तफलत्वात् उपभोगेनैव क्षीयतेअतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि अतीतानेकजन्मकृतानि तान्येव सर्वाणि भस्मसात् कुरुते ॥ ३७ ॥

योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति -

यथेति ।

दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे -

ज्ञानाग्निरिति ।

योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्रतिबन्धापेक्षया, इति विवक्षित्वा विशिनष्टि -

सम्यक् इति ।

दार्ष्टन्तिकं व्याचष्टे -

ज्ञानमेवेति ।

ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् ? इत्याशङ्क्य, आह -

नहीति ।

ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वात् अविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मोद्भवसम्भवात् इत्यर्थंः ।

ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह -

तस्मादिति ।

सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृत्तिप्रसङ्गात् ज्ञानोदयसमकालमेव शरीरपातः स्यात् इत्याशङ्क्य, आह -

सामर्थ्यादिति ।

ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधितत्वप्रसङ्गात् आचार्यलाभान्याथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः ।

कथं तर्हि प्रारब्धफलं कर्म नश्यति ? इत्याशङ्क्य, आह -

येनेति ।

तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् ? तत्राह -

अत इति ।

ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः ॥ ३७ ॥