श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
यथा एधांसि काष्ठानि समिद्धः सम्यक् इद्धः दीप्तः अग्निः भस्मसात् भस्मीभावं कुरुते हे अर्जुन, ज्ञानमेव अग्निः ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा निर्बीजीकरोतीत्यर्थः । न हि साक्षादेव ज्ञानाग्निः कर्माणि इन्धनवत् भस्मीकर्तुं शक्नोति । तस्मात् सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वे कारणम् इत्यभिप्रायः । सामर्थ्यात् येन कर्मणा शरीरम् आरब्धं तत् प्रवृत्तफलत्वात् उपभोगेनैव क्षीयते । अतो यानि अप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक् कृतानि ज्ञानसहभावीनि च अतीतानेकजन्मकृतानि च तान्येव सर्वाणि भस्मसात् कुरुते ॥ ३७ ॥

योग्यायोग्यविभागेन निवर्तकत्वानिवर्तकत्वविभागमुदाहरति -

यथेति ।

दृष्टान्तानुरूपं दार्ष्टान्तिकमाचष्टे -

ज्ञानाग्निरिति ।

योग्यविषयेऽपि दाहकत्वम् अग्नेः अप्रतिबन्धापेक्षया, इति विवक्षित्वा विशिनष्टि -

सम्यक् इति ।

दार्ष्टन्तिकं व्याचष्टे -

ज्ञानमेवेति ।

ननु ज्ञानं साक्षादेव कर्मदाहकं किमिति नोच्यते, नीर्बीजीकरोति कर्म इति किमिति व्याख्यानम् ? इत्याशङ्क्य, आह -

नहीति ।

ज्ञानस्य स्वप्रमेयावरणाज्ञानापाकरणे सामर्थ्यस्य लोके दृष्टत्वात् अविक्रियब्रह्मात्मज्ञानमपि तदज्ञानं निवर्तयत् तज्जन्यकर्तृत्वभ्रमं कर्मबीजभूतं निवर्तयति । तन्निवृत्तौ च कर्माणि न स्थातुं पारयन्ति । नतु साक्षात्कर्मणां निवर्तकम् । ज्ञनमज्ञानस्यैव निवर्तकमिति व्याप्तेः तदनिवृत्तौ तु पुनरपि कर्मोद्भवसम्भवात् इत्यर्थंः ।

ज्ञानस्य साक्षात्कर्मनिवर्तकत्वाभावे फलितमाह -

तस्मादिति ।

सम्यग्ज्ञानं मूलभूताज्ञाननिवर्तनेन कर्मनिवर्तकम् इष्टं चेत् , आरब्वफलस्यापि कर्मणो निवृत्तिप्रसङ्गात् ज्ञानोदयसमकालमेव शरीरपातः स्यात् इत्याशङ्क्य, आह -

सामर्थ्यादिति ।

ज्ञानोदयसमसमयमेव देहापोहे तत्त्वदर्शिभिः उपदिष्टं ज्ञानं फलवत् इति भगवदभिप्रायस्य बाधितत्वप्रसङ्गात् आचार्यलाभान्याथानुपपत्त्या प्रवृत्तफलकर्मसम्पादकमज्ञानलेशं न नाशयति ज्ञानमित्यर्थः ।

कथं तर्हि प्रारब्धफलं कर्म नश्यति ? इत्याशङ्क्य, आह -

येनेति ।

तर्हि कथं ज्ञानाग्निः सर्वकर्माणि भस्मसात् करोतीत्युक्तम् ? तत्राह -

अत इति ।

ज्ञानादारब्धफलानां कर्मणां निवृत्त्यनुपपत्तेः अनारब्धफलानि यानि कर्माणि पूर्वं ज्ञानोदयात् अस्मिन्नेव जन्मनि कृतानि ज्ञानेन च सह वर्तमानानि, प्रचीनेषु चानेकेषु जन्मसु अर्जितानि, तानि सर्वाणि ज्ञानं कारणनिवर्तनेन निवर्तयतीत्यर्थः ॥ ३७ ॥