तत्पुनरात्मविषयं ज्ञानं सर्वेषां किमिति झटिति नोत्पद्यते ? तत्राह -
तत्स्वयमिति ।
महता कालेन यथोक्तेन साधनेन योग्यतामापन्नः तदधिकृतः स्वयं तत् आत्मनि ज्ञानं विन्दतीति योजना । सर्वेषां झटिति ज्ञानानुदयो योग्यतावैधुर्यादिति भावः ॥ ३८ ॥