ज्ञानलाभप्रयोजनमाह -
ज्ञानमिति ।
न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह -
श्रद्धालुत्वेऽपीति ।
मन्दप्रस्थानत्वं - तात्पर्यविधुरत्वम् । नच तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह -
अत आहेति ।
अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संयतेन्द्रियत्वमपि । तदभावे श्रद्धादेः अकिञ्चित्करत्वात् इत्याशयेनाह -
श्रद्धावानिति ।
उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह -
य एवंभूत इति ।
‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४-३४) इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते ? तत्राह -
प्रणिपातादिस्त्विति ।
तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवात् । विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वात् इत्यर्थः ।
मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवात् अनैकान्तिकत्वमविशिष्टम् , इत्याशङ्क्य, आह -
नत्विति ।
नहि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमाभियोगतोऽनुष्टातुमर्हन्ति इत्यर्थः ।
उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति -
किम्पुनरित्यादिना ।
सम्यग्ज्ञानात् अभ्यासादिसाघनानपेक्षात् मेक्षो भवति इत्यत्र प्रमाणमाह -
सम्यग्दर्शनादिति ।
शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥