श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
श्रद्धावान् श्रद्धालुः लभते ज्ञानम्श्रद्धालुत्वेऽपि भवति कश्चित् मन्दप्रस्थानः, अत आहतत्परः, गुरूपसदनादौ अभियुक्तः ज्ञानलब्ध्युपाये श्रद्धावान्तत्परः अपि अजितेन्द्रियः स्यात् इत्यतः आहसंयतेन्द्रियः, संयतानि विषयेभ्यो निवर्तितानि यस्य इन्द्रियाणि संयतेन्द्रियः एवंभूतः श्रद्धावान् तत्परः संयतेन्द्रियश्च सः अवश्यं ज्ञानं लभतेप्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादिसम्भवात् ; तु तत् श्रद्धावत्त्वादौ इत्येकान्ततः ज्ञानलब्ध्युपायःकिं पुनः ज्ञानलाभात् स्यात् इत्युच्यतेज्ञानं लब्ध्वा परां मोक्षाख्यां शान्तिम् उपरतिम् अचिरेण क्षिप्रमेव अधिगच्छतिसम्यग्दर्शनात् क्षिप्रमेव मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः ॥ ३९ ॥

ज्ञानलाभप्रयोजनमाह -

ज्ञानमिति ।

न केवलं श्रद्धालुत्वमेवासहायं ज्ञानलाभे हेतुः, अपि तु तात्पर्यमपि, इत्याह -

श्रद्धालुत्वेऽपीति ।

मन्दप्रस्थानत्वं - तात्पर्यविधुरत्वम् । नच तस्योपदिष्टमपि ज्ञानमुत्पत्तुमीष्टे । तेन तात्पर्यमपि तत्र कारणं भवति इत्याह -

अत आहेति ।

अभियुक्तः - निष्ठावान् । उपासनादौ - इत्यादिशब्देन श्रवणादि गृह्यते । नच श्रद्धा तात्पर्यं च इत्युभयमेव ज्ञानकारणं, किन्तु संयतेन्द्रियत्वमपि । तदभावे श्रद्धादेः अकिञ्चित्करत्वात् इत्याशयेनाह -

श्रद्धावानिति ।

उक्तसाधनानां ज्ञानेन सह ऐकान्तिकत्वमाह -

य एवंभूत इति ।

‘तद्विद्धि प्रणिपातेन’ (भ. गी. ४-३४) इत्यादौ प्रागेव प्रणिपातादेर्ज्ञानहेतोरुक्तत्वात् किमितीदानीं हेत्वन्तरमुच्यते ? तत्राह -

प्रणिपातादिस्त्विति ।

तद्धि बहिरङ्गम् , इदं पुनरन्तरङ्गं, न च तत्र ज्ञाने प्रतिनियमः, मनसि अन्यथा कृत्वा बहिः अन्यथाप्रदर्शनात्मनो मायावित्वस्य सम्भवात् । विप्रलम्भकत्वादेरपि सम्भावनोपनीतत्वात् इत्यर्थः ।

मायावित्वादेः श्रद्धावत्त्वतात्पर्यादावपि सम्भवात् अनैकान्तिकत्वमविशिष्टम् , इत्याशङ्क्य, आह -

नत्विति ।

नहि मायया विप्रलम्भेन वा श्रद्धातात्पर्यसंयमाभियोगतोऽनुष्टातुमर्हन्ति इत्यर्थः ।

उत्तरार्धं प्रश्नपूर्वकम् अवतार्य व्याकरोति -

किम्पुनरित्यादिना ।

सम्यग्ज्ञानात् अभ्यासादिसाघनानपेक्षात् मेक्षो भवति इत्यत्र प्रमाणमाह -

सम्यग्दर्शनादिति ।

शास्त्रशब्देन तमेव विदित्वा (श्वे.उ. ३ - ८), ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि विवक्षितम् । न्यायस्तु ज्ञानादज्ञाननिवृत्तेः रज्ज्वादौ प्रसिद्धत्वात् आप्तज्ञानादपि निरपेक्षात् अज्ञानतत्कार्यप्रक्षयलक्षणो मोक्षः स्यात् , इत्येवं लक्षणः ॥ ३९ ॥