श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
येन एकान्तेन ज्ञानप्राप्तिः भवति स उपायः उपदिश्यते —

कर्मयोगेन समाधियोगेन च सम्पन्नस्य ज्ञानोत्पत्तौ अन्तरङ्गं साधनमुपदिशति -

येनेति ।