श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति
नायं लोकोऽस्ति परो सुखं संशयात्मनः ॥ ४० ॥
अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गुरुवाक्यशास्त्रेषु अविश्वासवांश्च संशयात्मा संशयचित्तश्च विनश्यतिअज्ञाश्रद्दधानौ यद्यपि विनश्यतः, तथा यथा संशयात्मासंशयात्मा तु पापिष्ठः सर्वेषाम्कथम् ? नायं साधारणोऽपि लोकोऽस्तितथा परः लोकः सुखम् , तत्रापि संशयोत्पत्तेः संशयात्मनः संशयचित्तस्यतस्मात् संशयो कर्तव्यः ॥ ४० ॥

अज्ञात् अश्रद्दधानाच्च संशयचित्तस्य विशेषमादर्शयति -

नायमिति ।

द्वितीयविभागविभजनार्थं भूमिकां करोति -

अज्ञेति ।

अज्ञादीनां मध्ये संशयात्मानः यत् पापिष्ठत्वं, तत् प्रश्नद्वारा प्रकटयति -

कथमिति ।

लोकद्वयस्य तत्प्रयुक्तसुखस्य च अभावे हेतुमाह -

तत्रापीति ।

संशयचित्तस्य सर्वत्र संशयप्रवृत्तेर्दुर्निवारत्वादित्यर्थः ।

संशयस्यानर्थमूलत्वे स्थिते फलितमाह -

तस्मादिति

॥ ४० ॥