श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अत्र संशयः कर्तव्यः, पापिष्ठो हि संशयः ; कथम् इति उच्यते

उतरश्लोकस्य पातनिकां करोति -

अत्रेति ।

यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षात्कृतब्रह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते ।

संशयस्याकर्तव्यत्वे हेतुमाह -

पापिष्ठो हीति ।

उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति-

कथमिति ।