उतरश्लोकस्य पातनिकां करोति -
अत्रेति ।
यथोक्तसाधनवान् उपदेशमपेक्ष्य अचिरेण ब्रह्म साक्षात्करोति । साक्षात्कृतब्रह्मत्वे अचिरेणैव मोक्षं प्राप्नोति इत्येषोऽर्थः सप्तम्या परामृश्यते ।
संशयस्याकर्तव्यत्वे हेतुमाह -
पापिष्ठो हीति ।
उक्तं हेतुं प्रश्नपूर्वकमुत्तरश्लोकेन साधयति-
कथमिति ।