श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसञ्छिन्नसंशयः निबध्यते कर्मभिः ज्ञानाग्निदग्धकर्मत्वादेव, यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति

तस्मादित्यादिसमनन्तरश्लोकगततत्पदापेक्षितमर्थमाह -

यस्मादिति ।

सतां कर्मणामस्मदादिषु फलारम्भकत्वोपलम्भाद् विदुष्यपि तेषां तद्भाव्यमनपवाधम् , इत्याशङ्क्य आह -

ज्ञानाग्नीति ।

ननु सन्दिहानस्य तत्प्रतिबन्धात् न कर्मयोगानुष्ठानं, नापि तद्धेतुकज्ञानं, तत्रापि संशयावतारात् , इत्याशङ्क्य, आह -

यस्माच्चेति ।