श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
संन्यासं कर्मणां कृष्ण पुनर्योगं शंससि
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत्पुनः योगं तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससिअतः मे कतरत् श्रेयः इति संशयःकिं कर्मानुष्ठानं श्रेयः, किं वा तद्धानम् इतिप्रशस्यतरं अनुष्ठेयम्अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोवाप्तिः मम स्यादिति मन्यसे, तत् एकम् अन्यतरम् सह एकपुरुषानुष्ठेयत्वासम्भवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ॥ १ ॥

प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति -

संन्यासमिति ।

तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -

यच्छ्रेय इति ।

काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -

शास्त्रीयाणामिति ।

अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह -

पुनरिति ।

तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य  आह -

अत इति ।

द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति -

किं कर्मेति ।

प्रशस्यतरबुभुत्सा किमर्था ? इत्याशङ्क्य आह -

प्रशस्यतरं चेति ।

तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -

यदनुष्ठानादिति ।

तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।

उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -

सहेति ।

कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥