प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति -
संन्यासमिति ।
तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -
यच्छ्रेय इति ।
काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -
शास्त्रीयाणामिति ।
अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह -
पुनरिति ।
तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य आह -
अत इति ।
द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति -
किं कर्मेति ।
प्रशस्यतरबुभुत्सा किमर्था ? इत्याशङ्क्य आह -
प्रशस्यतरं चेति ।
तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -
यदनुष्ठानादिति ।
तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।
उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -
सहेति ।
कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥