श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
संन्यासं कर्मणां कृष्ण पुनर्योगं शंससि
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
संन्यासं परित्यागं कर्मणां शास्त्रीयाणाम् अनुष्ठेयविशेषाणां शंससि प्रशंससि कथयसि इत्येतत् । पुनः योगं च तेषामेव अनुष्ठानम् अवश्यकर्तव्यं शंससि । अतः मे कतरत् श्रेयः इति संशयः — किं कर्मानुष्ठानं श्रेयः, किं वा तद्धानम् इति । प्रशस्यतरं च अनुष्ठेयम् । अतश्च यत् श्रेयः प्रशस्यतरम् एतयोः कर्मसंन्यासकर्मयोगयोः यदनुष्ठानात् श्रेयोवाप्तिः मम स्यादिति मन्यसे, तत् एकम् अन्यतरम् सह एकपुरुषानुष्ठेयत्वासम्भवात् मे ब्रूहि सुनिश्चितम् अभिप्रेतं तवेति ॥ १ ॥

प्रष्टुरभिप्रायम् एवं प्रदर्श्य प्रश्नोपपत्तिमुक्त्वा प्रश्नमुत्थापयति -

संन्यासमिति ।

तर्हि द्वयं त्वयानुष्ठेयमित्याशङ्क्य, तदशक्तेरुक्तत्वात् प्रशस्यतरस्यानुष्ठानार्थं तदिदम् इति निश्चित्य वक्तव्यम् , इत्याह -

यच्छ्रेय इति ।

काम्यानां प्रतिषिद्धानां च कर्मणां परित्यागो मयोच्यते, न सर्वेषाम् , इत्याशङ्क्य, कर्मण्यकर्म (४ - १८) इत्यादौ विशेषदर्शनात् , मैवम् इत्याह -

शास्त्रीयाणामिति ।

अस्तु तर्हि शास्त्रीयाशास्त्रीययोरशेषयोरपि कर्मणोः त्यागः, नेत्याह -

पुनरिति ।

तर्हि कर्मत्यागः तद्योगश्च, इत्युभयमाहर्तव्यमित्याशङ्क्य, विरोधात् मैवम् इत्यभिप्रेत्य  आह -

अत इति ।

द्वयोः एकेन अनुष्ठानायोगस्योक्तत्वात् कर्तव्यत्वोक्तेश्च संशयो जायते । तमेव संशयं विशदयति -

किं कर्मेति ।

प्रशस्यतरबुभुत्सा किमर्था ? इत्याशङ्क्य आह -

प्रशस्यतरं चेति ।

तस्यैवानुष्ठेयत्वे प्रश्नस्य सावकाशत्वमाह - अतश्चेति । तदेव प्रशस्यतरं विशिनष्टि -

यदनुष्ठानादिति ।

तदेकम् - अन्यतरत् , मेब्रूहीति । सबन्धः ।

उभयोरुक्तत्वे सति किमित्येकं वक्तव्यमिति नियुज्यते ? तत्राह -

सहेति ।

कर्मतत्त्यागयोर्मिथो विरोधादित्यर्थः ॥ १ ॥