श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) इत्यारभ्य युक्तः कृत्स्नकर्मकृत्’ (भ. गी. ४ । १८) ज्ञानाग्निदग्धकर्माणम्’ (भ. गी. ४ । १९) शारीरं केवलं कर्म कुर्वन्’ (भ. गी. ४ । २१) यदृच्छालाभसन्तुष्टः’ (भ. गी. ४ । २२) ब्रह्मार्पणं ब्रह्म हविः’ (भ. गी. ४ । २४) कर्मजान् विद्धि तान् सर्वान्’ (भ. गी. ४ । ३२) सर्वं कर्माखिलं पार्थ’ (भ. गी. ४ । ३३) ज्ञानाग्निः सर्वकर्माणि’ (भ. गी. ४ । ३७) योगसंन्यस्तकर्माणम्’ (भ. गी. ४ । ४१) इत्येतैः वचनैः सर्वकर्मसंन्यासम् अवोचत् भगवान्छित्त्वैनं संशयं योगमातिष्ठ’ (भ. गी. ४ । ४२) इत्यनेन वचनेन योगं कर्मानुष्ठानलक्षणम् अनुतिष्ठ इत्युक्तवान्तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तुमशक्यत्वात् , कालभेदेन अनुष्ठानविधानाभावात् , अर्थात् एतयोः अन्यतरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठानकर्मसंन्यासयोः तत् कर्तव्यं इतरत् इत्येवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन उवाचसंन्यासं कर्मणां कृष्ण’ (भ. गी. ५ । १) इत्यादिना

पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकम् अर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह -

स युक्त इति ।

ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं - कर्मप्रयुक्तबन्धविधुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवान् , इत्याह -

ज्ञानाग्नीति ।

निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह -

शारीरमिति ।

यदृच्छेत्यादावपि संन्यासः सूचितः तद्धर्मफलायोपदेशात् , इत्याह -

यदृच्छेति ।

ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह -

ब्रह्मार्पणमिति ।

ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहादिव्यापारजन्यत्ववचनेन आत्मनो निर्व्यापारत्वविज्ञनफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मंसन्यासेऽधिकारो ध्वनित, इत्याह -

कर्मजानिति ।

समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह –

सर्वमिति ।

‘तद्विद्धि’ इत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञानेनातिशयप्राहात्म्यवता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह -

ज्ञानाग्निरिति ।

ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं - वशीकृतकार्यकरणसङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह -

योगेति ।

‘कर्मणी’ त्यारभ्य ‘योगसंन्यस्तकर्माणम्’ इत्यन्तैरुदाहृतैर्वचनैः उक्तं संन्यासमुपसंहरति -

इत्यन्तैरिति ।

तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अनादेयमापन्नमित्याशङ्क्य, उक्तमर्थान्तरमनुवदति -

छित्त्वैनमिति ।

कर्मतत्त्यागयोरुक्तयोः एकेनैव पुुरुषेणानुष्ठेयत्वसम्भवात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति

उभयोश्चेति ।

द्वितीयं प्रत्याह -

कालभेदेनेति ।

उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे, कथं कर्तव्यत्वसिद्धिः ? इत्याशङ्क्याह -

अर्थादिति ।

द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्याम् अनुष्ठानानुपपत्तेरित्यर्थः ।

अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय ? द्वयोः संनिधानाविशेषात् इत्याशङ्क्य, आह -

यत्प्रशस्यतरमिति ।

भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समुच्चित्यानुष्ठानम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति -

इत्येवमिति ।