पूर्वोत्तराध्याययोः सम्बन्धमभिदधानो वृत्तानुवादपूर्वकम् अर्जुनप्रश्नस्याभिप्रायं प्रदर्शयितुं प्रक्रमते - कर्मणीत्यादिना इत्यारभ्य कर्मण्यकर्मदर्शनमुक्त्वा तत्प्रशंसा प्रसारिता, इत्याह -
स युक्त इति ।
ज्ञानवन्तं सर्वाणि कर्माणि लोकसङ्ग्रहार्थं कुर्वन्तं ज्ञानलक्षणेनाग्निना दग्धसर्वकर्माणं - कर्मप्रयुक्तबन्धविधुरं, विवेकवन्तो वदन्तीति, ज्ञानवतो ज्ञानफलभूतं संन्यासं विवक्षन् विविदिषोः साधनरूपमपि संन्यासं भगवान्विवक्षितवान् , इत्याह -
ज्ञानाग्नीति ।
निराशीरित्यारभ्य शरीरस्थितिमात्रकारणं कर्म, शरीरस्थितावपि सङ्गरहितः सन् आचरन् , धर्माधर्मफलभागी न भवतीत्यपि पूर्वोत्तराभ्यामध्यायाभ्यां द्विविधं संन्यासं सूचितवान् , इत्याह -
शारीरमिति ।
यदृच्छेत्यादावपि संन्यासः सूचितः तद्धर्मफलायोपदेशात् , इत्याह -
यदृच्छेति ।
ज्ञानस्य यज्ञत्वसम्पादनपूर्वकं प्रशंसावचनादपि कर्मसंन्यासो दर्शितो ज्ञाननिष्ठस्य, इत्याह -
ब्रह्मार्पणमिति ।
ज्ञानयज्ञस्तुत्यर्थं नानाविधान् यज्ञान् अनूद्य तेषां देहादिव्यापारजन्यत्ववचनेन आत्मनो निर्व्यापारत्वविज्ञनफलाभिलाषादपि यथोक्तमात्मानं विविदिषोः सर्वकर्मंसन्यासेऽधिकारो ध्वनित, इत्याह -
कर्मजानिति ।
समस्तस्यैव अवशेषवर्जितस्य कर्मणो ज्ञाने पर्यवसानाभिधानाच्च जिज्ञासोः सर्वकर्मसन्यासः सूचितः, इत्याह –
सर्वमिति ।
‘तद्विद्धि’ इत्यादिना ज्ञानप्राप्त्युपायं प्रणिपातादि प्रदर्श्य, प्राप्तेन ज्ञानेनातिशयप्राहात्म्यवता सर्वकर्मणां निवृत्तिरेव, इति वदता च, ज्ञानार्थिनः संन्यासेऽधिकारो दर्शितो भगवता, इत्याह -
ज्ञानाग्निरिति ।
ज्ञानेन समुच्छिन्नसंशयं तस्मादेव ज्ञानात्कर्माणि संन्यस्य व्यवस्थितमप्रमत्तं - वशीकृतकार्यकरणसङ्घातवन्तं प्रातिभासिकानि कर्माणि न निबध्नन्ति, इत्यपि द्विविधः संन्यासो भगवतोक्तः, इत्याह -
योगेति ।
‘कर्मणी’ त्यारभ्य ‘योगसंन्यस्तकर्माणम्’ इत्यन्तैरुदाहृतैर्वचनैः उक्तं संन्यासमुपसंहरति -
इत्यन्तैरिति ।
तर्हि कर्मसंन्यासस्यैव जिज्ञासुना ज्ञानवता च आदरणीयत्वात् कर्मानुष्ठानम् अनादेयमापन्नमित्याशङ्क्य, उक्तमर्थान्तरमनुवदति -
छित्त्वैनमिति ।
कर्मतत्त्यागयोरुक्तयोः एकेनैव पुुरुषेणानुष्ठेयत्वसम्भवात् न विरोधोऽस्ति इत्याशङ्क्य, युगपद्वा क्रमेण वा अनुष्ठानम् , इति विकल्प्य, आद्यं दूषयति
उभयोश्चेति ।
द्वितीयं प्रत्याह -
कालभेदेनेति ।
उक्तयोर्द्वयोरेकेन पुरुषेणानुष्ठेयत्वासम्भवे, कथं कर्तव्यत्वसिद्धिः ? इत्याशङ्क्याह -
अर्थादिति ।
द्वयोरुक्तयोरेकेन युगपत्क्रमाभ्याम् अनुष्ठानानुपपत्तेरित्यर्थः ।
अन्यतरस्य कर्तव्यत्वे, कतरस्येति कुतो निर्णय ? द्वयोः संनिधानाविशेषात् इत्याशङ्क्य, आह -
यत्प्रशस्यतरमिति ।
भगवता कर्मणां संन्यासो योगश्चोक्तः, नच तयो समुच्चित्यानुष्ठानम् । तेन अन्यतरस्य श्रेष्ठस्य अनुष्ठेयत्वे, तद्बुभुत्सया प्रश्नोपपत्तिः, इत्युपसंहरति -
इत्येवमिति ।