नायं प्रष्टुरभिप्रायः, कर्मसंन्यासकर्मयोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वात् , एकस्मिन्पुरुषे प्राप्त्यभावात् इति शङ्कते -
नन्विति ।
चोद्यमङ्गीकृत्य परिहरति -
सत्यमेवेति ।
कीदृशस्तर्हि प्रष्ठुरभिप्रायः ? येन प्रश्नप्रवृत्तिः इति पृच्छति -
कथमिति ।
एकस्मिन्पुरुषे कर्मतत्त्यागयोः अस्ति प्राप्तिः, इति प्रष्टुरभिप्रायं प्रतिनिर्देष्टं प्रारभते -
पूर्वोदाहृतैरिति ।
यथा ‘स्वर्गकामो यजेत’ इति स्वर्गकामोद्देशेन यागो विधीयते, नतु तस्यैवाधिकारो नान्यस्य इत्यपि प्रतिपाद्यते, वाक्यभेदप्रसङ्गात् ; तथा अनात्मवित् कर्ता संन्यासे पक्षे प्राप्तोऽनूद्यते, नचात्मवित्कर्तृकत्वमेव संन्यासस्य नियम्यते, वैराग्यमात्रेणाज्ञस्यापि संन्यासविधिदर्शनात् । तस्मात् कर्म तत्त्यागयोः अविद्वत्कर्तृकत्वमस्ति, इति मन्वानस्यार्जुनस्य प्रश्नः सम्भवतीति भावः ।
भवतु संन्यसस्य कर्तव्यत्वविवक्षा, तथापि कथं प्रशस्यतरबुभुत्सया प्रश्नप्रवृत्तिः ? इत्याशङ्क्य, आह -
प्राधान्यमिति ।
तथापि कथमेकस्मिन्पुरुषे तयोरप्राप्तौ उक्ताभिप्रायेण प्रश्नवचनं प्रकल्प्यते ? तत्राह -
अनात्मविदपीति ।
आत्मविदो विद्यासामर्थ्यात् कर्मत्यागध्रौव्यवत् इतरस्यापि सति वैराग्ये, तत्त्यागस्यावश्यकत्वात् तत्र कर्ताऽसौ प्राप्तः अत्रानूद्यते । तथाच कर्मतत्त्यागयोः एकस्मिन् अविदुषि प्राप्तेर्व्यक्तत्वात् उक्ताभिप्रायेण प्रश्नपवृत्तिरविरुद्धा इत्यर्थः ।
संन्यासस्य आत्मवित्कर्तृकत्वमेवात्र विवक्षित किं न स्यात् ? इत्याशङ्क्य, कर्त्रन्तरपर्युदासः संन्यासविधिश्च इत्यर्थभेदे वाक्यभेदप्रसङ्गात् मैवमित्याह -
न पुनरिति ।
इतिशब्दः वाक्यभेदप्रसङ्गहेतुद्योतनार्थः ।
ततः किम् ? इत्याशङ्क्य, फलितमाह -
एवमिति ।
कर्मानुष्ठानकर्मसंन्यासयोः अविद्वत्कर्तृकत्वमप्यस्ति, इत्येवंमन्वानस्यार्जुनस्य प्रशस्यतरविविदिषया प्रश्नो नानुपपन्न इति सम्बन्धः ।
तयोः समुच्चित्य अनुष्ठानसम्भवे कथं प्रशस्यतरविविदिषा ? इत्याशङ्क्य आह -
पूर्वोक्तेनेति ।
उभयोश्चेत्यादौ उक्चप्रकारेण कर्मतत्त्यागयोर्मिथो विरोधात् न समुच्चित्यानुष्ठानं सावकाशमित्यर्थः ।
भवतु तार्हि यस्य कस्यचिदन्यतरस्यानुष्ठेयत्वमिति, कुत उक्ताभिप्रायेण प्रश्नप्रवृत्तिः ? इत्याशङ्क्य आह -
अन्यतरस्येति ।
उभयप्राप्तौ समुच्चयानुपपत्तौ अन्यतरपरिग्रहे विशेषस्यान्वेष्यत्वात् उक्ताभिप्रायेण प्रशनोपपत्तिः इत्यर्थः ।